तिस्रो यह्वस्य समिधः परिज्मनो देवा अकृण्वन्नुशिजो अमर्त्यवे ।
तासा-मेनामदधुर्मर्त्ये भुजं लोकमिद् द्वे उप जामी
ईयतुः इति १
यत्र क्व चाभिषुणुयादुपर एव ग्राव्णाभिषुणुयात् २
एतस्यैवैषोऽभिषवमन्त्रः ३
योऽभिषूयमाणस्य प्रथमो ँऽशुः
स्कन्दति तमभिमन्त्रयेत आ मा स्कान् सह प्रजया सह रायस्पोषेण
४
अभिषवेऽभिषवेऽभिमन्त्रयेतेत्येकम् । य एव सर्वप्रथम इत्यपरम् ५
द्र
प्सश्चस्कन्द इति विप्रुषोऽभिमन्त्रयेत ६
अभि-षवेऽभिषवेऽभिमन्त्रयेतेत्येकम्
। य एव सर्वान्तत इत्यपरम् ७
अत्र यजमानो दशापवित्रस्य नाभिं कुरुते ८
अथैनँ सहिरण्येन पाणिना तिरः पवित्रमच्छिन्नां धाराँ स्रावयन्
दधिग्रहपात्रेण गृह्णाति । वायव्येनैव गृह्णीयादित्यपरम् ९
अथैनं खरे
सादयति एष ते योनिः इति १०
अथैनँ सहिरण्येन पाणिना प्राङ्मुखो जुहोति ।
तस्य दधिग्रहेण मन्त्रा व्याख्याताः ११
अनधिकृतो वा
सोम-धर्मैर्दधिग्रहविकारत्वात् १२
तत्रार्थग्रहणोऽभिषवः परत्रसंयोगात् । सोम-करणी
चास्याभिषवमन्त्रः १३
तत्रैषोऽत्यन्तप्रदेशः १४
७