०६

अपरया द्वारा हविर्धानेऽपः प्रपादयति पूर्वया वा । पूर्वया तु यजमानः प्रपद्यते १
उत्तरस्य हविर्धानस्याधस्ताद्वसतीवरीरेकधना मैत्रावरुणचमसीया इति सादयति २
दक्षिणस्य हविर्धानस्याधस्तात् पुरोऽक्षँ होतृचमसँ सादयित्वा दधिग्रहेण चरति ३
औदुम्बरेण पात्रेण चतुःस्रक्तिना दधि गृह्णाति उपयाम-गृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि इति ४
हरति अपेन्द्र द्विषतो मनः इति ५
जुहोति प्राणाय त्वा इत्यनुवाकशेषेण ६
आज्यग्रहं गृह्णीयात् तेजस्कामस्य । सोमग्रहं गृह्णीयाद् ब्रह्मवर्चसकामस्य । दधिग्रहं गृह्णीयात् पशुकामस्य ७
आज्यग्रहस्यैष एव कल्पः ८
सोमग्रहं ग्रहीष्यन्नधि-षवणचर्मणि राजानं निवपति यावन्तमेकग्रहायाप्तं मन्यते ९ प्रत्युपनह्येतरं वसतीवरीभिर्होतृचमसं पूरयित्वा निग्राभ्यासु यजमानं वाचयति निग्राभ्या स्थ देवश्रुतः इति प्रतिपद्य गणा मे मा वि तृषन् इत्यन्तेन १०
वसतीवरीभिरु-पसृज्याभिषोष्यन्नभिमन्त्रयते अवीवृधं वो मनसा सुजाताः इति ११
यत्र क्व चाभिषुणुयादेवमेवाभिमन्त्रयेत १२
अथैनमुपरे ग्राव्णाभिषुणोति १३