०५

अपरेण नेष्टुर्धिष्णियं पत्नी पन्नेजनीः सादयति वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीः सादयामि यज्ञाय वः पन्नेजनीः सादयामि इति १
उपरि चात्वालेऽध्वर्युर्होतृचमसं च मैत्रावरुणचमसं च सँ स्पृश्य वसतीवरी-र्व्यानयति समापो अद्भिरग्मत समोषधीभिरोषधयः सं व्रतैर्व्रतचारिणः इति २
होतृचमस आनीय मैत्रावरुणचमसं पूरयति । मैत्रावरुणचमसाद्धोतृचमसम् । होतृचमसान्मैत्रावरुणचमसम् ३
अथैनाः प्रचरण्या समनक्ति

सं वोऽनक्तु वरुणः समिन्द्र ःसं बृहस्पति ।

त्वष्टा विष्णुः प्रजया सँ रराणो यजमानाय द्र विणं दधातु ॥

इति यथायथं धुरो धूर्भिः कल्पन्ताम् इति च ४
पृच्छति होताध्वर्युम् अध्वर्योऽवेरपा इति ५
उतेमनन्नमुः इति प्रत्याह ६
ततः क्रतुकरणं जुहोति यमग्ने पृत्सु मर्त्यम् इत्येतया यद्यग्निष्टोमः ७
यद्युक्थ्यो हुत्वा परिधौ लेपं निमार्ष्टि ८
यदि षोडशी हुत्वा परिधौ लेपं निमृज्य द्रो णकलशमुपस्पृशति रराटीं वा ९
न जुहोति न निमार्ष्टि नोपस्पृशति वाजपेयेऽतिरात्रे वा । एतद्यजुर्वदन् प्रपद्यते १०
दक्षिणस्य हविर्धानस्य प्रधुरे प्रचरणीँ सादयति ११
यं द्विष्यात्तमुपस्पृशेत् १२