०४

यत्राभिजानाति अभूदुषा रुशत्पशुः इति तत् प्रचरण्या जुहोति शृणोत्वग्निः समिधा हवं मे इति १
अपरं चतुर्गृहीतं गृहीत्वा दर्भानादायोपनिष्क्रम्य सम्प्रेष्यति अप इष्य होतर्मैत्रावरुणस्य चमसाध्वर्यवाद्र वैकधनिन आद्र वत नेष्टः पत्नीमुदानयोन्नेतर्होतृचमसेन वसतीवरीभिश्चात्वालं प्रत्युपास्व इति २
त्र्! यवरार्ध्या अयुज एकधना भवन्ति ३
यथाचोदितं कुर्वन्ति ४ प्रेह्युदेहि इति नेष्टा पत्नीमुदानयति ५
यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृणुयात्तदपो-ऽध्वर्युर्गृह्णीयात् । यदि न शृणुयाद्बधिरः स्यात् । वाचोपछिद्येत ६
यदि दूरे स्युः प्रत्युदूह्य गृह्णीयात् ७
वहन्तीषु तृणं प्रास्यैतच्चतुर्गृहीतं जुहोति देवीरापो अपां नपात् इति ८
यदि वा पुरा तृणं भवति तस्मिन्नेव जुहोति ९
कार्षिरसि इति दर्भैराहुतिमपप्लाव्य घृतलिप्तानां मैत्रावरुणचमसेनोन्नयति समुद्र स्य वोऽक्षित्या उन्नये इति १०
एवमेवैकधना उन्नयति । सोमस्य वो मूजवतो रसं गृह्णामि इति वा ११
पत्नी पन्नेजनीर्गृह्णाति वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीर्गृह्णामि यज्ञाय वः पन्नेजनीर्गृह्णामि इति १२
आहरन्त्यपः १३
प्रेह्युदेहि इत्येव नेष्टा पत्नीमुदानयति १४