०३

अथैनान् सम्मृशति अपां क्षया ऋतस्य गर्भाः । भुवनस्य गोपाः श्येना अतिथयः । पर्वतानां ककुभः प्रयुतो न पातारः । वग्नुनेन्द्र ँह्वयत । घोषेणामीवाँ श्चातयत । युक्ताः स्थ वहत । स्वर्गं लोकमभिवहत यजमानम् इति १
सवनीयस्य तन्त्रं प्रक्रमयति २ समानमाज्यानां ग्रहणात् ३
लौकिकादाज्यात् प्रचरण्यामग्रे गृह्णाति ४
सहेध्मेनैधान् प्रोक्षति यानेतदहरभ्याधास्यन् भवति ५
यत् किञ्चाभि तयोराघारसमिधोरादध्यात् प्रोक्षितमेवादध्यात् ६
समानमा स्रुचाँ सादनात् ७
स्रुचः सन्ना अभिमृशति युनज्मि तिस्रो विपृचः सूर्यस्य ते इति ८
अत्रैके पात्रप्रयोजनँ समामनन्ति ९ आसन्यान्मा मन्त्रात् पाहि कस्या-श्चिदभिशस्त्याः इत्याग्नीध्रे हुत्वान्तरेषे राजानं ग्रावसूपावहरति हृदे त्वा ॥ सोम राजन्नेह्यवरोह इति द्वाभ्याम् १०
आग्नीध्रे पञ्चहोतारँ हुत्वा होत्रे प्रातरनुवाकाय सम्प्रेष्यति देवेभ्यः प्रातर्यावभ्योऽनुब्रूहि ब्रह्मन् वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वय प्रतिप्रस्थातः सवनीयान्निर्वपामिक्षां दोहय इति ११
यं द्विष्यात्तस्य प्रवदितासु वाक्सूपाकुर्यात् १२
आह्वयति सुब्रह्मण्यः सुब्रह्मण्यां पितापुत्रीयाम् १३
अत्र सवनीयान्निर्वपेदामिक्षां दोहयेदित्येकम् । उपरितरा-मित्यपरम् १४