०२

त्रीण्यतिग्राह्यपात्राणि प्रयुनक्ति १
दक्षिणस्य हविर्धानस्याग्रेणोपस्तम्भनमादि-त्यस्थालीं चादित्यपात्रं च । उत्तरस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम् २ उत्तरे ँऽस औदुम्बरं चतुःस्रक्ति दधिग्रहपात्रम् ३
मध्ये परिप्लवां यथा स्रुगदण्डा ४
यथावकाशं खादिरं चतुःस्रक्ति षोडशिपात्रं यदि षोडशी भवति ५
प्रादेशमात्राण्यूर्ध्वसानूनि मध्ये सन्नतानि वायव्यान्यासेचनवन्ति भवन्ति ६ यान्यनादिष्टवृक्षाणि यः कश्च यज्ञियो वृक्षस्तस्य स्युरित्याश्मरथ्यः । वैकङ्क-तानीत्यालेखनः ७
एतेन चमसानां वृक्षनियोगो व्याख्यातः । नैयग्रोधा एव स्युरित्यपरम् ८
त्सरुमन्तोऽत्सरुका वा दश चमसा भवन्ति ९
दश चमसाध्वर्यवः १०
होतुर्ब्रह्मण उद्गातुर्यजमानस्य मैत्रावरुणस्य ब्राह्मणा-च्छँ सिनः पोतुर्नेष्टुरच्छावाकस्याग्नीध्रस्येत्येतेषामेते चमसा भवन्ति । तान् खरे यथावकाशं प्रयुनक्ति ११
दक्षिणस्य हविर्धानस्याधस्तात् पश्चादक्षं द्रो णकलशँ सदशापवित्रं प्रयुनक्ति युनज्मि ते पृथिवीं ज्योतिषा सह इति १२ उत्तरस्य नीड आधवनीयं युनज्मि वायुमन्तरिक्षेण ते सह इति १३
प्रउगे पूतभृतं युनज्मि वाचँ सह सूर्येण ते इति १४
अत्रैकेऽधिषवणचर्मणोओ ग्राव्णामिति प्रयोजनँ समामनन्ति १५
उपरमभि सम्मुखा भवन्ति १६