०१

महारात्रे बुध्यन्ते १
आग्नेय्यर्चाग्नीध्रमभिमृशेत् । वैष्णव्या हविर्धानम् । आग्नेय्या स्रुचः । वायव्यया वायव्यानि । ऐन्द्र यासदः २
अत्रैवा-भिमृशेदित्येकम् । कर्मागमे कर्माङ्गमित्यपरम् ३ आग्नध्रे यज्ञतनूर्जुहोति प्रजापतिर्मनसान्धोऽच्छेतः इत्येतास्त्रयस्त्रिँ शतम् । यज्ञार्तिं च प्रतिजुहोति । पूर्वामनुद्रुत्योत्तरया जुहोतीति विज्ञायते ४
एकया तु प्रथमम् ५
खरे पात्राणिओ प्रयुनक्ति अग्निर्देवता गायत्री छन्द उपाँ शोः पात्रमसि इत्येतै-र्मन्त्रैर्यथारूपम् ६
दक्षिणे ँऽस उपाँ श्वन्तर्यामयोः पात्रे प्रयुनक्ति । पूर्वमुपाँ शो-रपरमन्तर्यामस्य ७
अपि वा दक्षिणमुपाँ शोरुत्तरमन्तर्यामस्य ८
ते अन्तरेणो-पाँ शुसवनँ सँ स्पृष्टं सादयति ९
प्रत्यञ्चि द्विदेवत्यपात्राणि । परिद्रुगैन्द्र -वायवस्याजगावं मैत्रावरुणस्य द्विस्रक्त्याश्विनस्य १०
ततोऽपरे शुक्रामन्थिनोः पात्रे । दक्षिणं बैल्वँ शुक्रमन्थिनोः पात्रे । दक्षिणं बैल्वँ शुक्रपात्रमुत्तरं वैकङ्कतं मन्थिपात्रम् ११
ततोऽपरे आश्वत्थे अश्वशफबुध्ने उभयतोमुखे ऋतुपात्रे । दक्षिणमध्वर्योरुत्तरं प्रतिप्रस्थातुः १२ दक्षिणस्याँ श्रोण्यामाग्रयणस्थालीं प्रयुनक्ति । उत्तरस्यामुक्थ्यस्थालीं चोक्थ्यपात्रं चाश्वशफबुध्नम् १३
ते अन्तरेण १४