२१

निशायामन्तर्वेद्यासीनौ यजमानं पत्नीं च वसतीवरीभिरभिपरिहरन्ति १ नादीक्षितं वसतीवरीभिरभिपरिहरेयुः २
आदाय कुम्भँ सव्ये ँऽसे निधाय दक्षिणया द्वारोपनिष्क्रम्य दक्षिणं वेद्यन्तमनुपरीत्य दक्षिणस्यामुत्तरवेदिश्रोण्याँ सादयति इन्द्रा ग्नियोर्भागधेयी स्थ इति ३
आदाय कुम्भँ दक्षिणे ँऽसे निधाय यथेतं प्रतिपरीत्योत्तरया द्वारोपनिष्क्रम्योत्तरं वेद्यन्तमनुपरीत्योत्तरस्याम् उत्तरवेदिश्रोण्याँ सादयति मित्रावरुणयोर्भागधेयी स्थ इति ४
आदाय कुम्भँ सव्ये ँऽसे निधाय यथेतं प्रतिपरीत्य पूर्वया द्वारोपनिष्क्रम्याग्नीध्रे सादयति विश्वेषां देवानां भागधेयी स्थ यज्ञे जागृत इति ५
अग्रैता उपवासयति ६
आह्वयति सुब्रह्मण्यः सुब्रह्मण्यां पितापुत्रीयाम् ७
ततः पयाँ सि विशास्ति । या यजमानस्य व्रतधुक् तस्या आशिरं कुरुत या पत्नियै तस्यै दधिग्रहाय या घर्मधुक् तस्यै दधिघर्माय तप्तमनातक्तं मैत्रावरुणाय शृतातङ्क्यं कुरुता-दित्यग्रहाय इति ८
यथाचोदितं कुर्वन्ति ९ अत्रामिक्षायाः सायन्दोहं दोहयति १०
हविर्धाने यजमानं जागरयन्ति । प्राग्वँ शे पत्नीम् ११
आग्नीध्र ऋत्विजो वसन्ति । न सदसि कश्चन वसति १२
यजमान एवैताँ रात्रिँ राजानं गोपायतीति विज्ञायते १३ २१

इति द्वादशः प्रश्नः