प्रवृतः प्रवृतः प्रवृतहोमौ जुहोति जुष्टो वाचो भूयासम् ॥ ऋचा स्तोमँ
समर्धय इत्येताभ्याम् १
प्रवृतः प्रवृतो जुहुयादित्येकम् ।
अध्वर्युरेव जुहुयादित्यपरम् २
समानमा वपाया होमात् ३
हुतायां
वपायामाह्वयति सुब्रह्मण्यः सुब्रह्मण्यां पितापुत्रीयाम् ४
अपराह्णे वसतीवरीर्गृह्णाति वहन्तीनां प्रतीपं तिष्ठन् ५
कुम्भमुपमारयति हविष्मतीरिमा आपः इति ६
नान्तमा
वहन्तीरतीयात् ७
छायायै चातपतश्च सन्धौ गृह्णाति ।
वृक्षस्य वात्मनो वा छायायाम् ८
यस्यागृहीता अभिनिम्रोचेज्ज्योतिषा
वा गृह्णीयाद्धिरण्यं वावधाय ९
यो वा ब्राह्मणो बहुयाजी तस्य
कुम्भ्यानां गृह्णीयात् १०
वरं दत्त्वा
गृह्णीयादित्येकेषाम् ११
अथैना अपरेण
गार्हपत्यमुपसादयति अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि इति
१२
समानमेडायाः १३
दक्षिणेन हविर्धाने समवत्तँ हरत्युत्तरेण वा १४
ततः
सम्प्रेष्यति अग्नीदौपयजानङ्गारानाहर इति १५
शामित्रादाग्नीध्राद्वाङ्गा-रानाहृत्याग्नीध्रो
होत्रीये निवपति १६
प्रतिप्रस्थातोपयजति १७
नात्रानूयाजान्ते स्वरुं जुहोति
। न सवनीये अनूबन्ध्यायामेव जुहोति १८
तं दिवोपाकृत्य नक्तँ सँ स्थापयति १९
पत्नीसंयाजान्तः सन्तिष्ठते २०
हृदयशूलेन चरित्वा न यूपमुपतिष्ठते २१
नाग्नीषोमीये न सवनीये हृदयशूलेन चरन्ति । अनूबन्ध्यायामेव
चरन्तीत्येकेषाम् २२
२०