१९

यूपं छिनत्ति १
दीक्षासु यूपं छिनत्त्युपसत्सु वा २
विज्ञायते यदि दीक्षितस्यावृक्णो यूपः स्यादरणी चाज्यं चादाय यूपस्यान्तेऽग्निं मथित्वा जुहुयादिति ३
अथ यदि क्रीतः सोमः स्यादाहवनीय एव जुहुयात् ४
समानमा पशूपाकरणात् ५
अग्नीषोमीयं पशुमुपाकरोति ६
समानमा प्रवरात् ७
प्राकृतेन प्रवरेण होतारं वृत्वा पुनराश्राव्योपाँ शुनामधेयग्राहमस्फ्य उत्तरा-नृत्विजो वृणीते ८
इन्द्र ँहोत्रादसौ मानुषः इति होतारम् ९
अग्निमाग्नीध्रादसौ मानुषः इत्याग्नीध्रम् १० अश्विनाध्वर्यू आध्वर्यवादहं चासौ च मानुषौ इत्या-त्मानं प्रतिप्रस्थातारं च ११
मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादसौ मानुषः इति मैत्रावरुणम् १२
इन्द्रो ब्रह्मा ब्राह्मणादसौ मानुषः इति ब्राह्मणाच्छँ सिनम् १३
मरुतः पोत्रादसौ मानुषः इति पोतारम् १४ ग्नावो नेष्ट्रादसौ मानुषः इति नेष्टारम् १५
ततो यजमानं वृणीते अग्निर्दैवीनां विशां पुरएतायँ सुन्वन् यजमानो मनुष्याणां तयोर्नावस्थूरि गार्हपत्यानि सन्तु शतँ हिमा द्वा यू राधाँसीत्सं-पृञ्चानावसम्पृञ्चानौ तन्वः इति १६
सवनीय एके वृणते । तत्र सुन्वन् इति ब्रूयात् १७
अयं यजमानो मनुष्याणाम् इत्यग्नीषोमीये वृणानः १८
१९