आसन्नँ राजानं यजमानोऽभिमन्त्रयते एष वो देव सवितः सोमस्तँ रक्षध्वं मा वो
दभदेतत्त्वँ सोम देवो देवानुपागाः इति १
प्रदक्षिणमावर्तते इदमहं मनुष्यो
मनुष्यान् सह प्रजया सह रायस्पोषेण इति २
नमो देवेभ्यः इति प्राचीनमञ्जलिं
करोति ३
स्वधा पितृभ्यः इति दक्षिणतः ४
उपनिष्क्रामति इदमहं निर्वरुणस्य
पाशात् इति ५
विहारमभिवीक्षते सुवरभि वि ख्येषं वैश्वानरं ज्योतिः इति ६
ततोऽवान्तरदीक्षां विसृजते ७
दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते अग्ने
व्रतपते त्वं व्रतानां व्रतपतिरसि इति ८
नितरां मेखलां मृध्नीते ९
ततो
मुष्टी विसृजते । स्वाहा यज्ञं मनसा इति द्वे । स्वाहा
द्यावापृथिवीभ्याम् इति द्वे ।
स्वाहोरोरन्तरिक्षात् इति द्वे । स्वाहा
यज्ञं वातादारभे इति द्वे १०
स्वाहा वाचि वातो विसृजे इति वाचं
विसृजते ११
निवर्तते व्रतम् १२
सोमान् हविःशेषानिति सुत्येऽहनि
भक्षयति १३
तत इध्मं बर्हिरिति प्रोक्षति यथा दर्शपूर्णमासयोः १४
अथैतद्बर्हिः सर्वस्यां महावेद्याँ स्तृणीयादित्येकम् ।
अपरेणोत्तरवेदिमित्यपरम् १५
यत् किं चात
ऊर्ध्वं बर्हिरागच्छेदेवमेवैनँ स्तृणीयात् १६
समानमा स्रुचाँ
सादनात् १७
स्रुचः सादयित्वा १८
१८