१७

शालामुखीय इध्ममादीप्य सम्प्रेष्यति अग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहि इति १
त्रिरनूक्तायां प्रथमायामग्निप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति २ अथैनमनु-हरन्त्याज्यान्यनुहरन्तीध्माबर्हिरनुहरन्ति प्रोक्षणीरनुनयन्त्यग्नीषोमीयम् ३
आग्नीध्र एतमिध्मँ सादयित्वा नयवत्यर्चाभिजुहोति अयं नो अग्निर्वरिवः कृणोतु ४
अत्रैव ग्राव्णो वायव्यानि द्रो णकलशमाग्नीध्र उपवासयति ५ सोमप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति ६
उरु विष्णो वि क्रमस्व इत्याहवनीये हुत्वापरया द्वारा हविर्धाने राजानं प्रपादयति सोमो जिगाति गातुवित् इति । पूर्वया वा ७
पूर्वया तु यजमानः प्रपद्यते ८
यदि गतश्रीः स्यात् पूर्वयैव द्वारा राजानं प्रपादयेत् ९
दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति अदित्याः सदोऽसि इति १०
तस्मिन् राजानमासादयति अदित्याः सद आसीद इति ११
१७