अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति १
प्लक्षशाखामातिथ्याबर्हिष्युपसं-नह्यति
। आतिथ्यापरिधीनिध्मे २
त्रयोविँ शतिदारुमिध्मं करोति ३
समान-माज्यानां
ग्रहणात् ४
शालामुखीये पाशुकान्याज्यानि गृह्णाति ५
एतस्मि-न्नेवात
ऊर्ध्वं गार्हपत्यकर्माणि क्रियन्ते ६
आ सोमं ददत आ ग्राव्ण आ वायव्यान्या
द्रो णकलशमुत् पत्नीमानयन्त्यन्वनाँ सि प्रवर्तयन्ति ७
शाला-मुखीयं
गार्हपत्यकर्मभ्योऽन्ववस्यन्ति ८
प्राची पत्नी
पूर्वमग्निमभ्युदैति प्रैतु
ब्रह्मणस्पत्नी इति ९
अग्ने गृहपत उप मा
ह्वयस्व इत्येतदादि शालामुखीये कुरुत आ गार्हपत्याभिमन्त्रणात्
१०
उपस्थे ब्रह्मा राजानं कुरुते ११
सँ ह्वयन्ति यजमानस्यामात्यान् १२
अध्वर्युं यजमानोऽन्वारभते यजमानं पत्नी पत्नीमितरे पुत्रभ्रातरः
१३
अहतेन वाससामात्यान् सम्प्रच्छाद्य वाससोऽन्तँ स्रुग्दण्ड उपनियम्य
जुहोति वैसर्जनानि त्वँ सोम तनूकृद्भ्यः इति १४
जुषाणो
अप्तुराज्यस्य वेतु स्वाहा इति द्वितीयामाहुतिँ हुत्वा १५
१६