तत इतरानुपतिष्ठते १
सम्राडसि कृशानुः इत्याहवनीयम् २
परिषद्योऽसि पवमानः
इति यत्र बहिष्पवमानँ स्तुवते ३
प्रतक्वाऽसि नभस्वान् इति चात्वालम् ४
असम्मृष्टोऽसि हव्यसूदः इति शामित्रदेशम् ५
ऋतधामासि सुवर्जोतिः
इत्यौदुम्बरीम् ६
ब्रह्मज्योतिरसि सुवर्धाम इति
ब्रह्मसदनम् ७
समुद्रो ऽसि विश्वव्यचाः इति सदः ८
अजोऽस्येकपात् इति शालामुखीयम् ९
अहिरसि बुध्नियः
इति प्राजहितम् १०
कव्योऽसि कव्यवाहनः इत्यन्वा-हार्यपचनम् ११
अत्रैके बर्हिषः स्तरणँ समामनन्ति १२
ततः सम्प्रेष्यति
स्तृणीत बर्हिः प्र व्रतं यच्छत समपिव्रतान् ह्वयध्वम् इति
१३
न खरमधिस्तृणन्ति । न धिष्णियान् १४
अत्रास्मा एकस्तनव्रतं
प्रयच्छति १५
१५