चात्वालाद्धिष्णियानुपवपति १
आग्नीध्रागारेऽन्तर्वेद्याग्नीध्रीयं विभूरसि
प्रवा-हणः इति २
रौद्रे णानीकेन इत्येनं मन्त्रँ सर्वत्रानुषजति ३
अपरेण
सदोबिलं पृष्ठ्यायाँ होत्रीयं वह्निरसि हव्यवाहनः इति ४
दक्षिणेन
होत्रीयं प्रशास्त्रीयं श्वात्रोऽसि प्रचेताः इति ५
उत्तरेण होत्रीयमुदीच इतरान् ६
तुथोऽसि विश्ववेदाः इति
ब्राह्मणाच्छँ सिनः ७
उशिगसि कविः इति पोतुः ८
अङ्घारिरसि
बम्भारिः इति नेष्टुः ९
अवस्युरसि दुवस्वान् इत्यच्छावाकस्य १०
दक्षिणार्धे वेदेर्मार्जा-लीयं प्रष्टिमाग्नीध्रीयेण शुन्ध्यूरसि
मार्जालीयः इति ११
१४