प्रधिमुखे पुरस्तात्सँ हिते समावकृत्ते पश्चाद्द्व्यङ्गुल उत्तराधिषवणफलके
भवति चतुरङ्गुलं वा १
पुरस्तादँ हीयसी भवतः पश्चात् प्रथीयसी २
द्वौ
दक्षिणेना-पिदधाति द्वावुत्तरेण रक्षोहणौ वलगहनावुपदधामि वैष्णवी
इति ३
पर्यूहति रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी इति ४
परिस्तृणाति
रक्षोहणौ वलगहनौ परिस्तृणामि वैष्णवी इति ५
अमिन्त्रयते
रक्षोहणौ वलगहनौ वैष्णवी इति ६
रक्षोहणं त्वा वलगहनं वैष्णवं
प्रोक्षामि इत्यधिषवणचर्म प्रोक्षत्यानडुहँ रोहितम् ७
अधिषवणफलकयोरधिषवणचर्मास्तृणात्युत्तरलोमासेचनवत्
र-क्षोहा त्वा वलगहा वैष्णवमास्तृणामि इति ८
तस्मिँ श्चतुरो ग्राव्णः
सादयत्यू-र्ध्वसानूनाहननप्रकारानुपरं प्रयिष्ठं मध्ये पञ्चमं
बृहन्नसि बृहद्ग्रावा बृहती-मिन्द्रा य वाचं वद इत्येकैकम् ९
औपरवात्
पुरीषाद्दक्षिणस्य हविर्धानस्या-ग्रेणोपस्तम्भनं चतुःस्रक्तिं खरं
करोति यावन्तं पात्रेभ्य आप्तं मन्यते १०
१३