११

उपरवान् व्याख्यास्यामः १
दक्षिणस्य हविर्धानस्याधस्तात् पुरोऽक्षं चत्वारो-ऽवान्तरदेशेषु प्रादेशमुखाः प्रादेशान्तराला भवन्ति । असम्भिन्ना उपरिष्टात् सन्तृण्णा अधस्तात् २
सावित्रेणाभ्रिमादाय परिलिखति परिलिखितँ रक्षः परिलिखिता अरातयः इति ३ दक्षिणयोः पूर्वं ततोऽपरं तत उत्तरतस्ततः पूर्वम् ४ एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ५
बाहुमात्रान् खात्वाभ्र्या प्रहरति रक्षोहणो वलगहनो वैष्णवान् खनामि इति । सकृदेव मन्त्रं जपति ६
विराडसि सपत्नहा इति बाहुमुपावहृत्य पुरीषमुद्वपति इदमहं तं वलगमुद्वपामि यं नः समानो यमसमानो निचखान इति ७
उपरवबिले न्युप्यावबाधते इदमेनमधरं करोमि यो नः समानो योऽसमानोऽरातीयति गायत्रेण छन्दसा इति ८ एवमेवोत्तरेणोत्तरेण मन्त्रेणोत्तरेषु बाहुमुपावहृत्य पुरीषमुद्वपत्युत्तरेणोत्तरेण छन्दसावबाधते । त्रैष्टुभं जागतमानुष्टुभं पाङ्क्तमित्ये-तान्याम्नातानि भवन्ति ९ निरस्तो वलगः इति पुरीषँ हरति १०
अवबाढो दुरस्युः इति खरे न्युप्यावबाधते ११
११