उपरवान् व्याख्यास्यामः १
दक्षिणस्य हविर्धानस्याधस्तात् पुरोऽक्षं
चत्वारो-ऽवान्तरदेशेषु प्रादेशमुखाः प्रादेशान्तराला भवन्ति
। असम्भिन्ना उपरिष्टात् सन्तृण्णा अधस्तात् २
सावित्रेणाभ्रिमादाय
परिलिखति परिलिखितँ रक्षः परिलिखिता अरातयः इति ३
दक्षिणयोः पूर्वं ततोऽपरं तत उत्तरतस्ततः पूर्वम् ४
एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ५
बाहुमात्रान्
खात्वाभ्र्या प्रहरति रक्षोहणो वलगहनो वैष्णवान् खनामि इति । सकृदेव
मन्त्रं जपति ६
विराडसि सपत्नहा इति बाहुमुपावहृत्य
पुरीषमुद्वपति इदमहं तं वलगमुद्वपामि यं नः समानो
यमसमानो निचखान इति ७
उपरवबिले न्युप्यावबाधते इदमेनमधरं
करोमि यो नः समानो योऽसमानोऽरातीयति गायत्रेण छन्दसा इति ८
एवमेवोत्तरेणोत्तरेण मन्त्रेणोत्तरेषु बाहुमुपावहृत्य
पुरीषमुद्वपत्युत्तरेणोत्तरेण छन्दसावबाधते । त्रैष्टुभं
जागतमानुष्टुभं पाङ्क्तमित्ये-तान्याम्नातानि भवन्ति ९
निरस्तो वलगः इति पुरीषँ हरति १०
अवबाढो दुरस्युः इति खरे
न्युप्यावबाधते ११
११