प्राचीनकर्णा ँसहोद्गात्रोच्छ्रयति उद्दिवँ स्तभानान्तरिक्षं पृण इति १
प्राचीनक-र्णा ँसहोद्गात्रा मिनोति द्युतानस्त्वा मारुतो मिनोतु इति २
पर्यूहणं परिदृँ हणं परिषेचनमिति यूपे व्याख्यातम् ३
अथास्या अन्तरेण कर्णौ
हिरण्यं निधाया-भिजुहोति घृतेन द्यावापृथिवी आपृणेथाँ स्वाहा इति ।
आन्तमन्ववस्रावयति ४
यजमानमात्र्यौदुम्बरी वर्षिष्ठा
स्थूणानां भवति । यथासुष्ठुपर्यन्तां मिन्वन्ति ५
यजमानमात्रँ
ह्रसीयो वा सदः सम्मिनोति ६
यदि कामयेत वर्षुकः पर्जन्यः
स्यादिति नीचैस्तरां मिनुयात् । यदि कामयेतावर्षुकः
स्यादित्युच्चैस्तराम् । नाभिदघ्नपर्यन्तां
मिन्वन्तीति विज्ञायते ७
ऐन्द्र मसि इत्येकैकं मध्यमानि छ-दी ँ!
ष्यधिनिदधाति ८
इन्द्र स्य सदोऽसि इति दक्षिणानि ९
विश्वजनस्य छाया
इत्युत्तराणि १०
दक्षिणान्युत्तराणि करोति ११
औदुम्बरीमभि
सम्मुखानि भवन्ति १२
नवछद्यग्निष्टोमस्य मिनुयात् । पञ्चदशछद्युक्थ्यस्य ।
सप्तदश-छद्यतिरात्रस्य । नवधदि पञ्चदशछदि वा षोडशिनः १३
नवछदि तेज-स्कामस्य
मिनुयादिति काम्याश्छदिःकल्पा ब्राह्मणव्याख्याताः १४
अन्तर्वर्तान्
परिश्रयणँ साङ्काशिनं परिषीवणं ग्रन्थिकरणमभिमर्शनमिति ।
एतावन्नाना । ऐन्द्रा एते मन्त्रा भवन्ति १५
१०