१०

प्राचीनकर्णा ँसहोद्गात्रोच्छ्रयति उद्दिवँ स्तभानान्तरिक्षं पृण इति १ प्राचीनक-र्णा ँसहोद्गात्रा मिनोति द्युतानस्त्वा मारुतो मिनोतु इति २ पर्यूहणं परिदृँ हणं परिषेचनमिति यूपे व्याख्यातम् ३
अथास्या अन्तरेण कर्णौ हिरण्यं निधाया-भिजुहोति घृतेन द्यावापृथिवी आपृणेथाँ स्वाहा इति । आन्तमन्ववस्रावयति ४
यजमानमात्र्यौदुम्बरी वर्षिष्ठा स्थूणानां भवति । यथासुष्ठुपर्यन्तां मिन्वन्ति ५
यजमानमात्रँ ह्रसीयो वा सदः सम्मिनोति ६
यदि कामयेत वर्षुकः पर्जन्यः स्यादिति नीचैस्तरां मिनुयात् । यदि कामयेतावर्षुकः स्यादित्युच्चैस्तराम् । नाभिदघ्नपर्यन्तां मिन्वन्तीति विज्ञायते ७
ऐन्द्र मसि इत्येकैकं मध्यमानि छ-दी ँ! ष्यधिनिदधाति ८
इन्द्र स्य सदोऽसि इति दक्षिणानि ९
विश्वजनस्य छाया इत्युत्तराणि १०
दक्षिणान्युत्तराणि करोति ११
औदुम्बरीमभि सम्मुखानि भवन्ति १२
नवछद्यग्निष्टोमस्य मिनुयात् । पञ्चदशछद्युक्थ्यस्य । सप्तदश-छद्यतिरात्रस्य । नवधदि पञ्चदशछदि वा षोडशिनः १३
नवछदि तेज-स्कामस्य मिनुयादिति काम्याश्छदिःकल्पा ब्राह्मणव्याख्याताः १४
अन्तर्वर्तान् परिश्रयणँ साङ्काशिनं परिषीवणं ग्रन्थिकरणमभिमर्शनमिति । एतावन्नाना । ऐन्द्रा एते मन्त्रा भवन्ति १५
१०