सम्मितमभिमृशति वैष्णवमसि विष्णवे त्वा इति १
सम्मिताद्यजमानं
प्राञ्च-मुपनिष्क्रामति
प्र तद्विष्णुः स्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥
इति । त्रिः प्रक्रामयतीति विज्ञायते २
उपनिष्क्रामतीत्येकेषाम् ३
प्राचीनवँ शं हविर्धानं मिन्वन्ति ४
प्राचीनवँ
शमाग्नीध्रं दक्षिणाद्वारमर्धमन्तर्वेद्यर्धं
बहिर्वेदि ५
तिरश्चीनमुदगायतँ सदः ६
तत्रैषोऽत्यन्तप्रदेशः । न प्राङ्
हविर्धाने अतीयादध्वर्युः ७
यद्यतीयाद्वैष्णव्यर्चा सञ्चरेत् क्षैत्रपत्या
वा ८
न प्रत्यक्सदो-ऽतीयात् ९
यद्यतीयादैन्द्र र्य्चा सञ्चरेदिति
विज्ञायते १०
पश्चार्ध्याच्छङ्कोस्त्रीनू प्राचः प्रक्रमान्
प्रक्रम्य शङ्कुं निहन्ति । स सदसःपश्चार्ध्यः ११
दक्षिणेन पृष्ठ्यां
प्रक्रम औदुम्बरी ँसर्वस्य सदसो मध्यतो मिनोति १२
नवारत्नि
तिर्यक् सप्तवि ँशतिरुदगायतमिति सदसो विज्ञायते ।
अष्टादशेत्येकेषाम् १३
यावदृत्विग्भ्यो
धिष्णियेभ्यः प्रसर्पकेभ्य आप्तं मन्यते तावत् सदः
करोती-त्येकेषाम् १४
सावित्रेणाभ्रिमादायौदुम्बर्या अवटं परिलिखति
परिलिखितँ रक्षः परिलिखिता अरातयः इति १५
खात्वा यवमतीभिः
प्रोक्षणीभिरौदुम्बरीं प्रोक्षति । दिवे त्वा इत्यग्रम् ।
अन्तरिक्षाय त्वा इति मध्यम् । पृथिव्यै त्वा इति मूलम् १६
अपामवनयनं
यवस्य प्रासनं बर्हिषोऽवस्तरणमिति यूपे व्याख्यातम् १७
९