उत्तरस्योत्तरं कर्णातर्दं प्रति मेथीं निहन्ति विष्णोर्नु कं वीर्याणि
प्रवोचम् इति १
तयोर्हविर्धाने निबध्नीतः विष्णो स्यूरसि इति २
विष्णोर्ध्रुवमसि इति ग्रन्थिं करोति ३
यं प्रथमं ग्रन्थिं
ग्रथ्नीयात् स प्रज्ञातः परिशयीत ४
पश्चादुपमिन्वन्ति ५
ऊर्ध्वाः शम्या उद्वृह्योपरिष्टात् परिवेष्टयन्ति ६
अग्रेण हविर्धाने
स्थूणे निहत्य तयोरुदगग्रं वँ शं निधाय तस्मिन् रराटीं प्रतिष्ठापयति
विष्णो रराटमसि इति ७
रराट्यां तिर्यञ्चं वँ शं निषीव्यति
विष्णो स्यूरसि इति ८
विष्णोर्ध्रुवमसि इति ग्रन्थिं करोति ९
यं
प्रथमं ग्रन्थिं ग्रथ्नीयात् स प्रज्ञातः परिशयीत १०
विष्णोः पृष्ठमसि
इति मध्यमं छदिरधिनिदधाति ११
विष्णो श्नप्त्रे स्थः इति रराट्या
अन्तौ व्यवास्यति १२
कटाँ स्तेजनीरिति प्रवर्तमन्तरालेषूपास्यति
१३
तानन्तर्वर्ता इत्याचक्षते १४
परि त्वा गिर्वणो गिरः इति परिश्रयति १५
द्वे द्वारे उत्सृजन्ति । पूर्वं चापरं च १६
शालामुखीयो होत्राय औत्तरवेदिक
इति समानँ साङ्काशिनं भवति १७
दक्षिणे द्वार्यावध्वर्युः परिषीव्यत्युत्तरे
प्रतिप्रस्थाता विष्णो स्यूरसि इति १८
विष्णोर्ध्रुवमसि इति ग्रन्थिं
करोति १९यं प्रथमं ग्रन्थिं ग्रथ्नीयात् स प्रज्ञातः परिशयीत २०
८