०७

हविर्धानाभ्यां प्रोह्यमाणाभ्यामनुब्रूहि इति १
त्रिरनूक्तायां प्रथमायामुद्गृह्णन्तः प्रवर्तयन्ति प्राची प्रेतमध्वरं कल्पयन्ती इति २
यद्यक्ष उत्सर्जेत् सुवाग्देव दुर्या ँआवद इत्येतदभिमन्त्रयेत ३
अध्वर्युर्दक्षिणस्य हविर्धानस्य दक्षिणे वर्त्मनि हिरण्यमुपास्य जुहोति इदं विष्णुर्वि चक्रमे इति ४
एवं प्रतिप्रस्थातोत्तरस्योत्तरे वर्त्मनि हिरण्यमुपास्य जुहोति इरावती धेनुमती हि भूतम् इति ५
तत्रैषोऽत्यन्तप्रदेशः । यानि दक्षिणस्य कर्माण्यध्वर्युस्तानि कुर्यादुत्तरस्य प्रतिप्रस्थाता ६
वितृतीयदेशे होता मनसा पदा जन्यं भयं प्रतिनु-दति

अप जन्यं भयं नुदाप चक्राणि वर्तय ।

गृहँ सोमस्य गच्छतम् ॥

इति । अध्वर्युरित्येकेषां ब्रह्मेत्येकेषां यजमान इत्येकेषाम् ७ अपरेणोत्तरवेदिं त्रिषु प्रक्रमेष्वपरिमिते वाभितः पृष्ठ्यां नभ्यस्थे स्थापयतः अत्र रमेथां वर्ष्मन् पृथिव्याः इति ८ यथार्थ ँहविर्धानयोरन्तरालं भवति ९
वैष्णवमसि विष्णुस्त्वोत्तभ्नातु इत्युपस्तभ्नीतः १०
पुरस्तादुन्नते भवतः ११
अध्व-र्युर्दक्षिणस्य हविर्धानस्य दक्षिणं कर्णातर्दं प्रति मेथीं निहन्ति दिवो वा विष्णवुत वा पृथिव्याः इति १२
एवं प्रतिप्रस्थाता १३