०६

प्रवर्ग्यमुद्वास्याग्नेरावृताग्निं प्रणीयामिक्षायै दधिघर्मायेति वत्सानपाकरोति १
मित्रावरुणाभ्याम् इत्यामिक्षायामुपलक्षयेदिन्द्रं दधिघर्मे २
अथाध्वर्यवो महावेदिकं बर्हिः प्रभूतमाहरन्ति यथा दर्शपूर्णमासयोः ३
तत उत्तरं परिग्राहं परिगृह्णाति यथा दर्शपूर्णमासयोः ४
न परिगृहीतामभिचरन्त्या प्रोक्षणात् ५
प्रोक्षणीनामावृता प्रोक्षणीः सँ स्कृत्य ब्रह्माणमामन्त्र्य वेदिं बर्हिरिति त्रिः प्रोक्षति यथा दर्शपूर्णमासयोः ६
अथैतद्बर्हिः सर्वस्यां महावेद्याँ स्तृणन्ति यथा दर्श-पूर्णमासयोः ७

आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।

येषामिन्द्रो युवा सखा ॥

इत्येतामेके स्तरणीँ समामनन्ति ८
अपरेण वेदिमभितः प्राग्वँ शँ हविर्धाने समावर्तयन्ति प्रक्षालिते विषितग्रन्थिनी नद्धयुगे अवहितशम्ये छदिष्मती ९
तत औत्तरवेदिक आहुतिं जुहोति युञ्जते मनः इति १० एतस्मिन्नेवात ऊर्ध्व-माहवनीयकर्माणि क्रियन्ते ११
पत्नी पदतृतीयेन दक्षिणस्य हविर्धानस्य दक्षिणामक्षधुरं प्राचा हस्तेन त्रिः पराचीनमुपानक्ति आ नो वीरो जायतां कर्मण्यः इति नोत्तराम् । उभयत उपानक्तीत्येकेषाम् १२
एवमेवोत्तर-स्योपानक्ति १३
ततः सम्प्रेष्यति १४