अथैनां दर्शपौर्णमासिकेन सँ स्कारेण सँ स्करोति यदन्यत् सन्नमनात् १
यत्
प्रागुत्तरस्मात् परिग्राहात् तत् कृत्वापरेण यूपावटदेशँ
शम्ययोत्तरवेदिं परि-मिमीते शम्यामात्रीं युगमात्रीं
वा । सर्वतो वा दशपदाम् २
एतामुत्तरस्माद् वेद्यँ सादुदञ्चं प्रक्रमं
प्रक्रम्य शङ्कुं निहन्ति ३
स चात्वालो भवति ४
अपरेण चात्वालं द्वादशसु
प्रक्रमेषु तावत्युदगुत्करः ५
अपरेणोत्करं च षट्स्वाग्नीध्रः ६
अन्तरेण
चात्वालोत्करौ सञ्चरो भवति । अन्तरेण चात्वालं चाग्नीध्रं
चेत्येकेषाम् ७
यत् किं च वेदिमन्ववहरिष्यन्
स्यादेतेनैवान्ववहरेत् ८
उत्तरवेद्या
आवृतोत्तरवेदिमुपोष्य प्रोक्षान्तां
कृत्वौदुम्बरशाखाभिश्छन्नां परि-वासयति ९
त्रिस्तनं मध्यन्दिने
व्रतयति १०
स्वपराह्ण आपराह्णिकीभ्यां प्रचरन्ति ११
रजाशयामेव
जुहोति १२
द्विस्तनं मध्यरात्रे व्रतयति १३
सुपूर्वाह्णे
पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति
१४
हराशयामत्रोपसदं जुहोति १५
तदानीमेवापराह्णिकीभ्यां
प्रवर्ग्योपसद्भ्यां प्रचरन्ति १६
हराशयामेव जुहोति १७
एकस्तनं मध्यन्दिने व्रतयति १८
सन्तिष्ठन्त
उपसदः १९
५