स्वपराह्ण आपराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति १
अयाशयामेव
जुहोति २
एतावन्नाना । याः प्रातर्याज्याः स्युस्ताः सायं
पुरोनुवाक्याः कुर्यात् । याः पुरोनुवाक्यास्ता याज्याः ३
सव्यानुत्तानान् पाणीन् कृत्वा निह्नवन्ते दक्षिणा-न्नीचः ४
चतुःस्तनं मध्यरात्रे व्रतयति ५
जागर्त्येताँ रात्रिम् ६
सुपूर्वाह्णे पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति ७
रजाशयामत्रोपसदं जुहोति ८
सँ स्थितायामुपसदि महावेदिं
विमिमीते
विमिमे त्वा पयस्वतीं देवानां धेनुँ सुदुघामनपस्फुरन्तीम् ।
इन्द्र ःसोमं पिबतु क्षेमो अस्तु नः ॥
इति ९
अग्रेण प्राग्वँ शं त्रीन् प्राचः प्रक्रमान् प्रक्रम्य शङ्कुं
निहन्ति १०
स वेदेः पश्चार्ध्यः शङ्कुः ११
ततः षट्त्रिँ शतं
प्राचः प्रक्रमान् प्रक्रम्य शङ्कुं निहन्ति १२
स यूपावट्यः शङ्कुः
१३
पश्चार्ध्याच्छङ्कोः पञ्चदश दक्षिणा प्रक्रमान् प्रक्रम्य
पञ्चदशोत्तरतस्तच्छङ्कुं निहन्ति १४
ते श्रोणी भवतः १५
यूपावट्याच्छङ्कोर्द्वादश दक्षिणा प्रक्रमान् प्रक्रम्य
द्वादशोत्तरतस्तच्छङ्कुं निहन्ति १६
तावँ सौ भवतः १७
अथैनमक्ष्णया प्रमाणेन प्रमाय स्पन्द्यया पर्यातनोति १८
अन्वातनोति पृष्ठ्याम् १९
अथैनाँ स्फ्येन विघनेन पर्श्वा परशुनेति
कुर्वन्ति २०
४