अग्रेण ध्रुवां वेदँ सादयित्वा सामिधेनीभ्यः सम्प्रेष्यति १
नव सामिधेन्यो
भवन्ति २
स्रौवमाघारमाघार्य सम्प्रेष्यति अग्नीत् परिधी ँश्चाग्निं च
त्रिस्त्रिः सम्मृड्ढि इति ३
समानमा प्रवरात् ४
आश्राव्याह सीद होतः इति ५
एतावान् प्रवरः ६
यत्राभिजानाति घृतवतीमध्वर्यो स्रुचमास्यस्व इति तद्
ध्रुवाया गृह्णात्यष्टगृहीतं जुह्वां चतुर्गृहीतमुपभृति ७
गृह्णन्
सम्प्रेष्यति अग्नयेऽनुब्रूहि इति ८
अत्याक्रम्याश्राव्याह
अग्निं यज इति ९
वषट्कृतेऽर्धं जुह्वा जुहोति १०
अपुनरतिक्रामन्
सम्प्रेष्यति सोमायानुब्रूहि इति ११
आश्राव्याह सोमं यज इति १२
वषट्कृते सर्वं जुहोति १३
अत्रैव तिष्ठन् सम्प्रेष्यति
विष्णवेऽनुब्रूहि इति १४
जुह्वामौपभृतं
पर्यासिच्याश्राव्याह विष्णुं यज इति १५
वषट्कृते जुहोति १६
प्रत्याक्रम्य स्रुवेणोपसदं जुहोति या ते अग्नेऽयाशया तनूः
इत्येताम् १७
यदि पुरो युध्येयुरयः प्रथमायामवधाय जुहुयाद्र
जतं मध्यमायाँ हरितमुत्तमाया-मिति विज्ञायते १८
यदि सङ्ग्रामं
युध्येयुरित्येकेषाम् १९
उपसदँ हुत्वा तथैव
राजानमाप्याययन्ति तथा निह्नवन्ते २०
अथोपसदा चरन्ति २१
ततः सम्प्रेष्यति अग्नीद्
देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य
सुब्रह्मण्यामाह्वय इति २२
अपरेण गार्हप-त्यमुपविश्याग्नीध्रो
देवपत्नीर्व्याचष्टे सेनेन्द्र स्य इत्येतमनुवाकम् २३
आह्वयति
सुब्रह्मण्यः सुब्रह्मण्याम् २४
सन्तिष्ठत उपसत् २५
३