ततोऽवान्तरदीक्षामुपैति १
दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते अग्ने
व्रतपते त्वं व्रतानां व्रतपतिरसि इति २
सन्तरां मेखलाँ
समायच्छते ३
सन्तरां मुष्टिं कर्षते ४
तप्तव्रतो भवति ५
मदन्तीभिर्मार्जयते ६
या ते अग्ने रुद्रि या तनूः इति व्रतयति ७
यदातिथ्याया बर्हिस्तदुपसदां तदग्नीषोमीयस्य । तदेव प्रस्तरपरिधीति
विज्ञायते ८
प्रवर्ग्येण प्रचर्योपसदस्तन्त्रं प्रक्रमयति । उपसदा वा
पूर्वम् ९
तत्स्तीर्णमेव बर्हिर्भवति । तत्परिहिताः परिधयः १०
दशदारुमिध्मं करोति ११
वेदं कृत्वाग्नीन् परिस्तीर्य
हस्ताववनिज्य पात्राणि प्रयुज्योलपराजी ँस्तीर्त्वा पवित्रे
कृत्वा सम्प्रेष्यति यजमान वाचं यच्छ १२
वाग्यतः पात्राणि सम्मृशति
१३
प्रोक्षणीः सँ स्कृत्य ब्रह्माणमामन्त्र्य पात्राणि प्रोक्ष्य
हविष्कृता वाचं विसृज्य बर्हिषो दर्भानेव स्तम्बयजुर्हरति १४
स्फ्यँ
स्तब्ध्वा सम्प्रेष्यति प्रोक्षणीरासादयेध्ममुपसादय स्रुवं च स्रुचश्च
सम्मृड्ढ्या-ज्येनोदेहि इति १५
समानमाज्यानां ग्रहणात् १६
ध्रुवायामेव गृह्णाति १७
प्रोक्षणीरभिमन्त्र्य
ब्रह्माणमामन्त्र्येध्मं वेदिं च प्रोक्ष्य प्रोक्षण्यवशेषं
निनीयाग्निमभिमन्त्र्य पूर्वामाघारसमिधमाधायान्तर्वेदि ध्रुवाँ
सादयित्वा स्रुवँ सादयति । एषासदत् इति मन्त्रँ सन्नमति १८
विष्ण्वसि वैष्णवं धाम प्राजापत्यम् इत्याज्यमभिमन्त्रयते १९
२