०१

यदातिथ्याया ध्रौवमाज्यं तत् कँ से चमसे वा पञ्चगृहीतं तानूनप्त्रँ समवद्यति आपतये त्वा गृह्णामि इत्येतैर्मन्त्रैः १ तद्यजमानसप्तदशा ऋत्विजः सम्मृशन्ति यजमानपञ्चमा वा महर्त्विजः अनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपा अनभिशस्तेन्यम् इति २
अनु मे दीक्षां दीक्षापतिर्मन्यताम् इति यजमानो-ऽवमृशति ३
तद्यजमानस्त्रिरवजिघ्रेत् प्रजापतौ त्वा मनसि जुहोमि इति ४
अपि वान्वहमेकैकस्मिन् व्रते प्रतिनयेत् ५
ततः सम्प्रेष्यति अग्नीन्मदन्त्यापा३
इति ६
मदन्ति देवीरमृता ऋतावृधः इत्याग्नीध्रः ७
ताभिराद्र व इत्यध्वर्युः ८
मदन्तीभिर्मार्जयित्वा विस्रस्य राजानँ सहिरण्यैः पाणिभिराप्याययन्ति ये तानूनप्त्रँ समवमृशन्ति अँ शुरँ शुस्ते देव सोमाप्यायताम् इति प्रतिपद्य स्वस्ति ते देव सोम सुत्यामशीय इत्यन्तेन ९
दक्षिणे वेद्यन्ते प्रस्तरे निह्नवन्ते दक्षिणानुत्तानान् पाणीन् कृत्वा सव्यान् नीचः एष्टा रायः प्रेषे भगाय इति १०
ततः सम्प्रेष्यति सुब्रह्मण्य सुब्रह्मण्यामाह्वय इति ११
एवमेव सर्वासु सुब्रह्मण्यासु सम्प्रेष्यति १२
सुब्रह्मण्यायां यजमानं वाचयति सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पादः । सासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पादः । सासि सुब्रह्मण्ये तस्यास्ते द्यौः पादः । सासि सुब्रह्मण्ये तस्यास्ते दिशः पादः । परोरजास्ते पञ्चमः पादः । सा न इषमूर्जं धुक्ष्व तेज इन्द्रि यं ब्रह्मवर्चसमन्नाद्यम् इति १३
एवमेव सर्वासु सुब्रह्मण्यासु यजमानं वाचयति १४