अष्टम्यां पर्वणि चोपवसति वाग्यतः १
न च संविशेत् २
संवत्सरमेतद् व्रतं
चरेत् ३
एतस्मिन्नेव संवत्सरेऽधीयीत ४
यद्येतस्मिन् संवत्सरे
नाधीयीत यावदध्ययनमेतद् व्रतं चरेत् ५
संवत्सरस्य परस्तात्
खिलेऽछदिर्दर्शेऽग्नि-मुपसमाधाय सम्परिस्तीर्य
पूर्ववद्विसृज्यावृत्तैर्मन्त्रैः
समिध आधायावृत्तैर्देवता उपस्थायात्र गुरवे वरं दत्त्वा केशश्मश्रु वापयते
६
अथास्य स्वाध्यायमधि ७
नित्ये ८
नानुत्सृष्टाध्यायोऽधीयीत न नक्तं
नाभिदोषमब्रह्मचर्यमापद्य न माँ सं खादित्वा न केशश्मश्रु
वापयित्वा न लोमानि कारयित्वा न नखानि न दतः प्रक्षाल्य ९
नाक्तो नाभ्यक्तो नाद्रो र्नार्दे नानववृष्टे न हरितयवान्
प्रेक्षमाणः १०
न ग्राम्यस्य पशोरन्ते नारण्यस्य नापां
नाभ्रे न छायायां न पर्यावृत्त आदित्ये ११
नाशृतमुत्पतितं न लोहितं
दृष्ट्वा न हर्म्याणि न शरीराणि न शवं नान्ता-वसायिनम् १२
खिलेऽछदिर्दर्शेऽग्निमुपसमाधाय
सम्परिस्तीर्यापरेणाग्निं दर्भेष्वासीनो दर्भान् दूर्वा
वा धारयमाणः पराचीनमधीयीत १३
वरं वा दत्त्वौपासने १४
अध्येष्यमाणः
प्रथमेनानुवाकेन शान्तिं कृत्वाधीयीत १५
अधीत्य चोत्तमेन १६
अधीयानो नान्या वाचो वदेत् १७
यत्र क्व चाशान्तिं कृतं पश्येत्
पुनरेव शान्तिं कृत्वाधीयीत १८
प्रवर्ग्यायोपनिष्क्रम्य
नाप्रति-प्रविश्यान्यदधीयीतान्यदधीयीत १९
२२
इत्येकादशः प्रश्नः