अथातोऽवान्तरदीक्षां व्याख्यास्यामः १
पर्वण्युदगयन आपूर्यमाणपक्षे पुण्ये
नक्षत्रेऽपराह्णे केशश्मश्रु वापयित्वा प्राचीं वोदीचीं वा
दिशमुपनिष्क्रम्य
खिलेऽछदिर्दर्शेऽग्निमुपसमाधाय
सम्परिस्तीर्य पूर्ववदुपाकृत्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं
कृत्वा चतस्र औदुम्बरीः समिधो घृतान्वक्ता आदधाति पृथिवी समित्
इत्येतैर्मन्त्रैः २
अथ देवता उपतिष्ठते अग्ने व्रतपते व्रतं
चरिष्यामि इति ३
अथैनँ सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति ।
प्रथमोत्तमयोर्वा ४
उत्तमेनानुवाकेन शान्तिं कृत्वा ततः
सम्मीलति वाचं च यच्छति ५
अथास्याहतेन वाससा शिरः सम्मुखं
वेष्टयित्वास्तमिते ग्रामं प्रपादयति ६
वाग्यत एताँ रात्रिं
तिष्ठत्यास्ते वा ७
श्वो भूते खिलेऽछदि-र्दर्शेऽग्निमुपसमाधाय
सम्परिस्तीर्याथास्य षट्तयमभिविदर्शयति । सप्त-तयमित्येके ।
अग्निमादित्यमुदकुम्भमश्मानं वत्सं महानग्नाँ हिरण्यँ
सप्तमम् ८
अपि वादितस्त्रीण्यभिविदर्शयति । यथोपपातमितराण्यभिविदर्शयति ९
तत आदित्यमुपतिष्ठते वयः सुपर्णाः इत्येतया १०
अत्रैतद्वासो गुरवे दत्त्वा
११
अथास्य ब्रह्मचर्यमधि १२
नित्ये १३
न नक्तं भुञ्जीत १४
यदि
भुञ्जीता-पज्वलितं भुञ्जीत १५
न मृन्मयं प्रतिधयीत १६
न स्त्रिया न शूद्रे ण वा सम्भाषेत १७
न चक्रीवदारोहेत् १८
नोपानहौ न
छत्रं धारयीत १९
न समाजमीक्षेत न हर्म्याणि न शरीराणि न शवं
नान्तावसायिनम् २०
२१