२०

यदि घर्मधुक् क्रिमीणा स्यात् अत्रिणा त्वा क्रिमे हन्मि इत्यनुवाकेनास्याः क्रिमीन् हन्यात् १
अपि वा सार्वत्रिकमेवैतत् प्रायश्चित्तं क्रियेत २ यमभिचरेत् तस्य लोहितमवदानं जुहुयात् आहरावद्य शृतस्य इत्यनुवाकेन ३
यम-भिव्याहरिष्यन् स्यात् त्रिरात्रावरं ब्रह्मचर्यं चरित्वा गत्वैनमभिव्याहरेत् ब्रह्मणा त्वा शपामि इत्यनुवाकेन ४
यं द्विष्यात् तस्य गोष्ठं गत्वा स्वजमोषधीं निखनेत् उत्तुद शिमिजावरि इत्यनुवाकेन ५
अपि वा गोष्ठस्यैव दक्षिणां द्वारस्थूणां विचालयेत् ६
यद्युद्गाता पुरुषसाम न गायेत् स्वयमेवाध्वर्युरुद्गायेत् भूर्भुवः सुवः इत्यनुवाकेन ७
२०