अथातः सुत्यायां प्रवृञ्जनम् १
यदि पुरस्तादरुणा स्यादथ प्रवृज्यः २
उपकाश
उपव्युषँ समयाविषित उदितानुदित उदिते वा ३
प्रातः सङ्गवे वा ४
माध्यन्दिने
वा पवमाने स्तुते ५
सकृदेवाग्नीध्रे प्रवृज्य इति विज्ञायते ६
तान्येतानि
प्रवृञ्जनान्यौपसदैः प्रवृञ्जनैर्विकल्पेरन् ७
व्याख्याता घोरास्तन्वः ।
अरण्येऽनुवाक्यश्च गण उत्तरौ चानुवाकौ ८
यदि घर्मेण चरत्स्वेकसृक
उत्तिष्ठेत् वि गा इन्द्र विचरन् स्पाशयस्व इत्येनमभिमन्त्रयेत ९
उभयत आदी-प्योल्मुकमस्मै प्रत्यस्येत् अग्ने अग्निना संवदस्व इति १०
अथैनमभिमन्त्रयते सकृत् ते अग्ने नमः इत्यनुवाकशेषेण ११
यदि गृध्रः
सालावृकी भयेडको दीर्घमुखुलूको भूतोपसृष्टः शकुनिर्वा वदेत् असृङ्मुखः
॥ यदेतत् ॥ यदीषितः ॥ दीर्घमुखि ॥ इत्थादुलूकः ॥ यदेतद्भूतान्यन्वाविश्य
॥ प्रसार्य सक्थ्यौ इत्येतैर्यथालिङ्गमभिमन्त्र्योल्मुकप्रत्यसनादि
समानम् १२
१९