अथैतानि घर्मे व्यथिते प्रायश्चित्तानि जुहोति मा नो घर्म व्यथितो विव्यथो
नः इत्यष्टौ १
यदि घर्मेण चरत्स्वादित्योऽस्तमियादपरस्यां द्वारि दर्भेण
हिरण्यं प्रबध्य उद्वयं तमसस्परि इत्युपस्थाय उदु त्यम् ॥ चित्रम् इति
द्वाभ्यां गार्हपत्ये हुत्वा प्रवृज्य श्वो भूत आदित्यमुपतिष्ठते वयः
सुपर्णाः इत्येतया २
दधिघर्मं भक्षयन्ति भूर्भुवः सुवः इत्यनुवाकेन ३
यदि
घर्मधुग् दोहनकाले नागच्छेदन्यां दुग्ध्वा प्रवृज्य ताँ सुत्यायां
ब्राह्मणाय दद्यात् ४
यदि घर्मदुघि पयो न स्याद् दृतेश्चतुर्थं
पादँ स्तनं कृत्वा पिन्वयेत् ५
यदि दधि दुहीत बार्हस्पत्यँ शँ सेत् ।
यदि पय आश्विनँ सोदर्कम् ६
यदि लोहितं दुह्येतान्यद्वा
विवर्णमन्वा-हार्यपचनं परिश्रित्य अग्नये
रुद्र वते स्वाहा इति जुहुयात् ७
यदि निषी-देद्धातुरृग्भ्यां
जुहुयात् ८
यद्यमेध्यमयज्ञियं
वाभ्युपविशेदाग्निवारुण्यर्चा
जुहुयात् । आग्नेय्या वा ९
यद्येनां वयोऽभिविक्षिपेद्वायव्यर्चा जुहुयात्
१०
यद्युद्वा पतेत् प्र वा मीयेत सं वा शीर्येत शार्दूलो वा
हन्यादर्कक्षीरमजाक्षीर आश्चोत्य प्रचरेत् ११
१८