यदि घर्मः स्कन्देत् अस्कान् द्यौः पृथिवीम् इति द्वाभ्यामेनमभिमन्त्रयेत १
यदि घर्मेण चरत्सु विद्युदापतेत् या पुरस्ताद्विद्युदापतत्
इत्येतैर्यथालिङ्गं जुहुयात् २
अथ यदि
सर्वतः सर्वा जुहुयात् ३
अथैतानि घर्मप्रायश्चित्तानि जुहोति
प्राणाय स्वाहा ॥ पूष्णे स्वाहा इत्यनुवाकाभ्याम् ४
घर्मेष्टकामुपदधाति उदस्य शुष्माद्भानुः इत्यनुवाकेन
५
कुलायिनीं यास्ते अग्ने आद्रा र्योनयः इत्यनुवाकेन ६
सञ्चितमग्निमैडिक्याभिमृशति अग्निरसि
वैश्वानरोऽसि इत्यनुवाकेन ७
भूर्भुवः सुवः इति सर्वप्रायश्चित्तानि
८
यदि महावीरः पद्येत ऊर्ध्व ऊ षु ण ऊतये इति द्वाभ्यामेनमुच्छ्रयेत् ९
यदि
भिद्येत विधुं दद्रा णम् इति सन्धाय यानि दृढार्थे सँ श्लेषणानि
तैरेनमभिदिह्येद्यदन्यन्माषेभ्यो माँ साच्च यदृते
चिदभिश्रिषः इति १०
यद्यप्रचरणीयः सम्पद्येतान्यस्मै स्थानमपिदध्यात् ११
यदि घर्ममतिपरीयुः न वा प्रतिपरीयुः पुनरूर्जा ॥ सह रय्या
इत्येताभ्यामेनं प्रतिपरीयुः १२
१७