१६

उत्तरवेद्यामुद्वासयेत् तेजस्कामस्य । उत्तरवेद्यामन्नाद्यकामस्य १
पुरो वा पश्चाद्वोद्वासयेत् २
नदीद्वीप उद्वासयेत् ३
यदि नदीद्वीप उद्वासयेन्न परिषिञ्चेत् ४
यं द्विष्याद्यत्र स स्यात् तस्यां दिश्यौदुम्बर्या ँशाखायामुद्वासयेत् इदमहममुष्यामुष्यायणस्य शुचा प्राणमपिदहामि इति ५
शुचैवास्य प्राणमपिदहति । ताजगार्तिमार्छतीति विज्ञायते ६
यत्र दर्भा उपदीकसन्तताः स्युस्तदुद्वासयेद् वृष्टिकामस्य ७
उत्तरवेद्यां नित्यं कल्पं ब्रुवते ८
नैनमुद्वासितं वयाँ सि पर्यासीरन्नाग्नेः प्रणयनात् ९
अत्रैके परिषेचनँ समामनन्ति १०
अथैनमपतिष्ठन्ते रन्तिर्नामासि दिव्यो गन्धर्वः इति प्रतिपद्य सह प्रजया सह रायस्पोषेण ११
मार्जालीयदेश उच्छिष्टखरे मार्जयन्ते सुमित्रा न आप ओषधयः सन्तु इति १२
उद्वयं तमसस्परि इत्यादित्यमुपस्थाय उदु त्यम् ॥ चित्रम् इति द्वाभ्यां गार्हपत्ये हुत्वोपतिष्ठन्ते इममू षु त्यमस्मभ्यम् इति १३
१६