१४

अथैताँ सम्राडासन्दीमुत्तरेणोत्तरवेदिं प्रतिष्ठाप्य सम्प्रेष्यति प्रस्तोतर्वाषाहरँ साम गाय । इष्टाहोत्रीयँ साम गाय इति १
इष्टाहोत्रीयस्य साम्नो निधनमुपयन्ति न वार्षाहरस्य २ यद्युपरिष्टात् परिषिञ्चेत् तत्र वार्षाहरं चोदयेत् ३ उदकुम्भ-मादाय प्रदक्षिणमुत्तरवेदिं त्रिः परिषिञ्चन् पर्येति वल्गुरसि शंयुधायाः इति ४
त्रिरपरिषिञ्चन् प्रतिपर्येति शं च वक्षि परि च वक्षि इति ५
चतुः-स्रक्तिर्नाभिरृतस्य इत्युत्तरवेदिमभिमृश्योत्तरेणोत्तरनाभिं खरौ न्युप्यानुव्यूहति सदो विश्वायुः इति ६
मार्जालीयदेश उच्छिष्टखरं निवपति अप द्वेषो अप ह्वरः इति ७
अप उपस्पृश्योत्तरेणोत्तरनाभिं खरे हिरण्यं निधाय तस्मिन् प्रचरणीयं महावीरमुपावहृत्येतरावुपावहरति पूर्वापरौ दक्षिणोत्तरौ वा ८
अथैतस्मिन् प्रचरणीये गोपय आनयति महीनां पयोऽसि विहितं देवत्रा इति ९
ज्योतिर्भा असि वनस्पतीनामोषधीनाँ रसः इति मधु १०
वाजिनं त्वा वाजिनोऽवनयामः इति दधि ११
एवमेव द्वितीयं पूरयत्येवं तृतीयम् १२
अपि वाज्यमेव प्रथम आनयेन्मधु द्वितीये दधि तृतीये १३
घर्मैतत् तेऽन्नमेतत् पुरीषम् इति दध्ना मधुमिश्रेण यान्यासेचनवन्ति तानि पूरयति १४
अभ्युक्षतीतराण्यरिक्ततायै १५
आदित्याकृतिं करोति १६
१४