१३

प्रवर्ग्यमुद्वासयिष्यन्नजामग्नीधे ददाति पष्ठौहीं ब्रह्मणे धेनुँ होत्रे रुक्मावध्वर्यवे १
समोप्यापरं खरं पूर्वस्मिन् खरे निवपति २
अथैताँ सम्राडा-सन्दीमुत्तरेणाहवनीयं प्रतिष्ठाप्य तस्याँ सर्वं परिघर्म्यं समवदधाति ३
औदुम्बर्या ँस्रुचि चतुर्गृहीतं गृहीत्वाहवनीये तिस्र आहुतीर्जुहोति घर्म या ते दिवि शुक् इत्येतैर्मन्त्रैः ४
अपि वा प्रतिप्रस्थाता त्रीन् सन्नखान् शला-कामुष्टीनादाय तेषामेकमाहवनीये प्रदीप्यास्यदघ्ने धारयति । तमध्व-र्युरभिजुहोति घर्म या ते दिवि शुक् इति ५
तस्मिन्नपरं प्रदीप्याहवनीये पूर्वं प्रहृत्य नाभिदघ्ने धारयति । तमध्वर्युरभिजुहोति घर्म या तेऽन्तरिक्षे शुक् इति ६
तस्मिन्नपरं प्रदीप्याहवनीये पूर्वं प्रहृत्य जानुदघ्ने धारयति । तम-ध्वर्युरभिजुहोति घर्म या ते पृथिव्याँ शुक् इति ७
आहवनीय एवैनमनुप्रहरति ८
एतस्मिन् काले प्रतिप्रस्थाता परिश्रिते पत्नीमुदानयति अनु नोऽद्यानुमतिः इति ९
अन्विदनुमते त्वम् इत्युपनिष्क्रामन्ति १०
आहरन्ति मेथीम् । अनुहरन्ति मयूखान् । आददते खरौ ११
दक्षिणत उच्छिष्टखरं परिहरति १२ अथैतस्याः सम्राडासन्द्या द्वावन्तर्वेदि पादौ द्वौ बहिर्वेदि प्रतिष्ठाप्य सम्प्रेष्यति प्रस्तोतः सामानि गाय इति १३
सह पत्न्या त्रिः साम्नो निधनमुपयन्ति १४
अर्धाध्वे द्वितीयम् । अप्रेणोत्तरवेदिं तृतीयम् १५
दिवस्त्वा परस्पायाः इति प्रथमेऽभिप्रव्रजन्ति । ब्रह्मणस्त्वा परस्पायाः इति द्वितीये । प्राणस्य त्वा परस्पायाः इति तृतीये १६
१३