१२

घर्माय सँ साद्यमानायानुब्रूहि इति १
आ यस्मिन्त्सप्त वासवाः इत्यभिज्ञा-याग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्याँ सादयति । स्वाहा त्वा सूर्यस्य रश्मिभ्यः इति प्रातः । स्वाहा त्वा नक्षत्रेभ्यः इति सायम् २
यत्राभिजानाति अद्धि तृणमघ्निये विश्वदानीम् इति तद्गामवसृजति ३
एवमेव सायम्प्रातः प्रवर्ग्येण प्रचरति ४
त्र्युपसत्के षट्कृत्वः षडुपसत्के द्वादशकृत्वो द्वादशो-पसत्के चतुर्वि ँशतिकृत्वः ५
एतावन्नाना ६ उत्तरेण मन्त्रेण सायँ रौहिणं जुहोति ७
अपीपरो माह्णो रात्रियै मा पाहि इति सायं काण्टकी ँसमि-धमादधाति । अपीपरो मा रात्रिया अह्नो मा पाहि इति प्रातः ८
अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा इति सायमग्निहोत्रं जुहोति । सूर्यो ज्योति-र्ज्योतिः सूर्यः स्वाहा इति प्रातः ९
सँ सृष्टहोमं वा १०
अग्निष्टोमे प्रवृणक्ति ११
नोक्थ्ये प्रवृञ्ज्यात् १२
विश्वजिति सर्वपृष्ठे प्रवृणक्ति १३
न प्रथमयज्ञे प्रवृञ्ज्यात् १४
प्रवृञ्ज्याद्वा १५
योऽनूचानः श्रोत्रियस्तस्य प्रवृञ्ज्यात् १६
प्रवृञ्ज्याद् दुर्ब्राह्मणस्य १७
ब्रह्मवर्चसकामस्येत्येकेषाम् १८
तं प्रवृज्य संवत्सरं न माँ समश्नीयान्न रामामुपेयान्न मृन्मयेन पिबेन्नास्य राम उच्छिष्टं पिबेत् १९
तेज एव तत् सँ श्यतीति विज्ञायते २० १२