घर्माय सँ साद्यमानायानुब्रूहि इति १
आ यस्मिन्त्सप्त वासवाः
इत्यभिज्ञा-याग्रेणाहवनीयं पर्याहृत्य
सम्राडासन्द्याँ सादयति । स्वाहा त्वा सूर्यस्य
रश्मिभ्यः इति प्रातः । स्वाहा त्वा नक्षत्रेभ्यः इति सायम्
२
यत्राभिजानाति अद्धि तृणमघ्निये विश्वदानीम् इति तद्गामवसृजति ३
एवमेव
सायम्प्रातः प्रवर्ग्येण प्रचरति ४
त्र्युपसत्के षट्कृत्वः षडुपसत्के
द्वादशकृत्वो द्वादशो-पसत्के चतुर्वि ँशतिकृत्वः ५
एतावन्नाना ६
उत्तरेण मन्त्रेण सायँ रौहिणं जुहोति ७
अपीपरो माह्णो रात्रियै मा
पाहि इति सायं काण्टकी ँसमि-धमादधाति । अपीपरो मा रात्रिया अह्नो मा
पाहि इति प्रातः ८
अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा इति
सायमग्निहोत्रं जुहोति । सूर्यो ज्योति-र्ज्योतिः
सूर्यः स्वाहा इति प्रातः ९
सँ सृष्टहोमं वा १०
अग्निष्टोमे प्रवृणक्ति
११
नोक्थ्ये प्रवृञ्ज्यात् १२
विश्वजिति सर्वपृष्ठे प्रवृणक्ति १३
न
प्रथमयज्ञे प्रवृञ्ज्यात् १४
प्रवृञ्ज्याद्वा १५
योऽनूचानः
श्रोत्रियस्तस्य प्रवृञ्ज्यात् १६
प्रवृञ्ज्याद्
दुर्ब्राह्मणस्य १७
ब्रह्मवर्चसकामस्येत्येकेषाम् १८
तं
प्रवृज्य संवत्सरं न माँ समश्नीयान्न रामामुपेयान्न मृन्मयेन
पिबेन्नास्य राम उच्छिष्टं पिबेत् १९
तेज एव तत् सँ श्यतीति विज्ञायते २०
१२