१०

अजापयस एके पूर्वमानयनँ समामनन्ति १
द्यावापृथिवीभ्यां त्वा परिगृह्णामि इति शफाभ्यां महावीरं परिगृह्य वेदेन परिवासितेन भस्म प्रमृज्य प्रति-प्रस्थातोपयमनेनोपयच्छति अन्तरिक्षेण त्वोपयच्छामि इति २ देवानां त्वा पितॄणामनुमतो भर्तु ँशकेयम् इत्युद्यम्य हरति तेजोऽसि तेजोऽनु प्रेहि इति ३
गच्छन्नेवानवानं पञ्च वातनामानि व्याचष्टे समुद्रा य त्वा वाताय स्वाहा इति ४अपान्य पञ्चोत्तराणि अग्नये त्वा वसुमते स्वाहा इति ५
एतस्मिन् काले प्रतिप्रस्थाता दक्षिणँ रौहिणँ स्रुचा प्रतिष्ठितं जुहोति अहर्ज्योतिः केतुना जुषताँ सुज्योतिर्ज्योतिषाँ स्वाहा इति ६
दक्षिणातिक्रामन्नध्वर्युर्ब्रह्माणमीक्षते विश्वा आशा दक्षिणसत् इति ७ विश्वान् देवानयाडिह इति होतारम् ८
स्वाहाकृतस्य घर्मस्य इति घर्ममभिमन्त्र्याश्राव्य प्रत्याश्राविते सम्प्रेष्यति घर्मस्य यज इति ९
वषट्कृते जुहोति अश्विना घर्मं पातम् इति १०
अनुवषट्कृते द्वितीयम् स्वाहेन्द्रा वट् इति ११
हुतं यजमानोऽनुमन्त्रयते घर्ममपातमश्विना इत्यनुवाकशेषेण १२
अथैनमुपर्याहवनीये धारयन् शृतदध्नाभिपूरयति १३
विक्षरन्तमभिमन्त्रयते इषे पीपिह्यूर्जे पीपिहि इति १४
अथैनं दिशोऽनुप्रहावयति । त्विष्यै त्वा इति पुरस्तात् । द्युम्नाय त्वा इति दक्षिणतः । इन्द्र याय त्वा इति पश्चात् । भूत्यै त्वा इत्युत्तरतः १५
प्रत्याक्रम्योपयमने शेषमानीयान्तर्वेद्युपयमनं निधाय पूर्वस्मिन् खरे राजतँ रुक्मं निधाय तस्मिन् महावीरं प्रतिष्ठापयति १६
१०