ततः सम्प्रेष्यति अग्नीद्रौ हिणौ पुरोडाशावासादय इति १
अनिष्टुब्धयोः
स्रुचो-रुपस्तीर्णाभिघारितौ पुरोडाशावासादयति २
दक्षिणं
परिधिसन्धिमन्वेकम् । उत्तरं परिधिसन्धिमन्वितरम् ३
सावित्रेण
रशनामादाय पूर्वया द्वारोपनिष्क्रम्य त्रिरुपाँ शु घर्मदुघमाह्वयति इड
एह्यदित एहि सरस्वत्येहि इति ४
प्रत्येत्य दोग्ध्रे निदाने इत्यादाय
दक्षिणया द्वारोपनिष्क्रम्य त्रिरुच्चैः असावेह्यसावेहि इति यथानामा भवति
५
अदित्या उष्णीषमसि इति रशनया घर्मदुघमभिदधाति । वायुरस्यैडः इति वत्सम् ६
पूषा त्वोपावसृजतु इत्युपावसृजति ७
यस्ते स्तनः शशयः इति
घर्मदुघमभिमन्त्रयते ८
उस्र घर्म ँ!
शिँ ष इति निदाय वत्समुपसीदति बृहस्पतिस्त्वोपसीदतु इति ९
दानवः स्थ
पेरवः इति स्तनान् सम्मृशति १०
वर्षीयसि दोग्ध्रे दोग्धि
अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व इति ११
तूष्णीं
प्रतिप्रस्थाता ह्रसीयस्यजाम् १२
अग्नीधे पयसी प्रदाय पूर्वावतिद्रुत्य
शफोपयमानाददाते । गायत्रोऽसि इति प्रथमम् । त्रैष्टुभोऽसि इति
द्वितीयम् । जागतमसि इत्युपयमनं प्रतिप्रस्थाता १३
यत्राभिजानाति उत्तिष्ठ ब्रह्मणस्पते इति तदाग्नीध्र
उपोत्तिष्ठति १४
यत्राभिजानाति उपद्र व पयसा गोधुगोषम्
इति तत् पय आहरति १५
आह्रियमाणमभिमन्त्रयते सहोर्जो भागेनोप मेहि इति १६
इन्द्रा श्विना मधुनः सारघस्य इति महावीरे गोपय आनयति १७
स्वाहा त्वा
सूर्यस्य रश्मये वृष्टिवनये जुहोमि इत्यूष्माण-मुद्यन्तमभिमन्त्रयते १८
मधु
हविरसि इत्यजापयः १९
९