सिद्ध्यै त्वा इति धृष्टी आदायाध्वर्युः प्रतिप्रस्थाता च
गार्हपत्यादुदीचोऽङ्गारान् निरूहतः तपो
ष्वग्ने अन्तराँ अमित्रान् इति १
तैरेनं प्रदक्षिणं पर्यूहतः चितः स्थ
परिचितः इति २
अथैनं त्रयोदशभिर्वैकङ्कतैः परिधिभिः परिधत्तः । मा
असि इति प्राञ्चावध्वर्युर्निदधाति । प्रमा असि इत्युदञ्चौ
प्रतिप्रस्थाता ३
एवमेवोत्तरैरुत्तरैर्मन्त्रैः
परिधत्तः । पूर्वेणपूर्वेणाध्वर्युरुत्तरेणोत्तरेण
प्रतिप्रस्थाता ४
अध्वर्युरेव दक्षिणतस्त्रयोदशं
निदधाति अन्तरिक्षस्यान्तर्धिरसि इति ५
अथैनँ सौवर्णेन
रुक्मेणापिदधाति दिवं तपसस्त्रायस्व इति ६
अथैन-मभिमन्त्र्यते आभिर्गीर्भिः इति
तिसृभिः ७
ततो धवित्राण्यादत्ते । गायत्रमसि इति प्रथमम् ।
त्रैष्टुभमसि इति द्वितीयम् । जागतमसि इति तृतीयम् ८
तैरेनं
त्रिरूर्ध्वमुपवाजयति मधु मधु इति ९
तेषामेकं
प्रतिप्रस्थात्रे प्रयच्छ-त्येकमाग्नीध्राय
१०
आग्नीध्रप्रथमास्त्रिः प्रदक्षिणमूर्ध्वं धून्वन्तः परियन्ति ११
अथैनं
पर्युपविशन्ति पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थातोत्तरत आग्नीध्रः १२
अव्यतिषङ्गं धून्वन्तः प्रणवैः सँ राधयन्त इन्धानाः समञ्जन्त आसते १३
प्रज्वलिते रुक्ममपादत्त इति विज्ञायते १४
यत्राभिजानाति
याभिर्वर्तिकां ग्रसिताममुञ्चतम् इति
तदध्वर्युर्महावीरमामन्त्रयते
दश प्राचीर्दश भासि दक्षिणाः इत्यनुवाकेन १५
यत्राभिजानाति
अप्नस्वतीमश्विना वाचमस्मे इति
तदुपोत्तिष्ठन्नध्वर्युराह रुचितो घर्मः इति १६
ततोऽध्वर्युप्रथमास्त्रिरनभिधून्वन्तः प्रतिपरियन्ति १७
धवित्राण्यादाय प्रतिप्रस्थात्रे प्रयच्छति १८
तत्
प्रति-प्रस्थाताग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्यां निदधाति
१९
यथालोकम-वस्थाय सर्व ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्ते अपश्यं
गोपाम् इति २०
अनुवाकशेषं तु प्रतिप्रस्थाता परिश्रिते पत्नीं वाचयति
त्वष्टीमती ते सपेय इति २१
८