एतस्मिन् काले प्रतिप्रस्थाता दर्विहोमसँ स्कारेणाज्यस्थाल्यामाज्यँ सँ
स्करोति १
नैतस्य सँ स्कारो विद्यत इत्यपरम् २
अधिश्रयत्याग्नीध्रो
रौहिणौ पुरोडाशौ तूष्णीमुपचरितौ ३
शफाभ्यां महावीरं परिगृह्य
वेदेनापरिवासितेन भस्म सम्मार्ष्टि देव पुरश्चर
सघ्यासं त्वा इति ४
स्रुवेणाहवनीये सप्तैकादश वा प्राणाहुतीर्जुहोति
प्राणाय स्वाहा ॥ व्यानाय स्वाहा इति ५
अथैनमाज्येना-नक्ति
देवस्त्वा सविता मध्वानक्तु इति ६
अपरस्मिन् खरे राजतँ रुक्मं निधाय
पृथिवीं तपसस्त्रायस्व इति प्रतिष्ठाप्य महावीरमन्यस्मै वा प्रदाय
द्वयान् मुञ्जप्रलवानादाय दक्षिणेषामग्राणि गार्हपत्ये प्रदीपयति
अर्चिषे त्वा इति ७
तेषामग्रैरुत्तरेषां मूलानि शोचिषे त्वा इति ८
तेषां मूलैर्दक्षिणेषां मूलानि ज्योतिषे त्वा इति ९
तेषां
मूलैरुत्तरेषामग्राणि तपसे त्वा इति १०
तान्
व्यत्यस्तानुपरि रुक्मे निदधाति अर्चिरसि शोचिरसि इति ११
दक्षिणानुत्तरान्
करोतीति विज्ञायते १२
तेषूपरिष्टान्महावीरं प्रतिष्ठापयति सँ सीदस्व महाँ
असि इति १३
अथैनमाज्येनाभिपूरयति अञ्जन्ति यं प्रथयन्तः इति १४
अध्यधि
महावीरमसँ स्पृशन् यजमानः प्राञ्चं प्रादेशं धारयमाणो जपति
अनाधृष्या पुरस्तात् इत्येतैर्मन्त्रैर्यथारूपम् १५
मनोरश्वासि
भूरिपुत्रा इत्युत्तरतः पृथिवी-मभिमृशति १६
७