तूष्णीं प्रोक्षणीधान्यां प्रोक्षणीः सँ स्कृत्य ब्रह्माणमामन्त्रयते
ब्रह्मन् प्रवर्ग्येण प्रचरिष्यामः । होतर्घर्ममभिष्टुहि ।
अग्नीद्रौ हिणौ पुरोडाशावधिश्रय । प्रतिप्रस्थातर्विहर । प्रस्तोतः
सामानि गाय इति १
ब्रह्मा प्रसौति यजुर्युक्तँ सामभिराक्तखम् इत्युपाँ
शूक्त्वा ओमिन्द्र वन्तः प्रचरत इत्युच्चैः २
अपि वा प्रचरत
इत्युच्चैः सर्वमन्यदुपाँ शु ३
प्रसूतो ब्रह्मणा सर्वं
परिघर्म्यं प्रोक्षति ४
यमाय त्वा ॥ मखाय त्वा
इत्येतैर्मन्त्रैस्त्रिः प्रोक्षति ५
अभिपूर्वं प्रोक्षति
६
प्रोक्षितानि व्यायातयतीति विज्ञायते ७
अथैताँ
सम्राडासन्दीमग्रेणाहवनीयं
पर्याहृत्य पुरस्ताद् राजासन्द्याः प्रतिष्ठाप्य तस्यां कृष्णाजिनं
प्राचीन-ग्रीवमुत्तरलोमास्तीर्य तस्मिन्नप्रचरणीयौ
महावीरावुपावहरति देव पुरश्चर सघ्यासं त्वा इति ८
उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् ९
अथैतां मेथीं मयूखान्
विशाखदामानीत्यादायाग्रेण होतारं जघनेन गार्हपत्यं दक्षिणया
द्वारोपनिष्क्रम्य दक्षिणेन दक्षिणां द्वारं मेथीं
निहन्ति होतुः समीक्षायै १०
एतस्यैव द्वारस्य पूर्वस्या
द्वार्याया दक्षिणतो वत्साय शङ्कुं निहन्ति ११
एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजायै ।
उत्तरतोऽभ्यन्तरं बर्कराय १२
तेषु त्रीणि विशाखदामानि व्यायातयति १३
तैरेनान् काले बध्नन्ति १४
ततः खरानुपवपति १५
उत्तरेण गार्हपत्यमेकम् ।
उत्तरेणाहवनीयमेकम् । उत्तरपूर्वमवान्तरदेशं प्रत्युच्छिष्टखरं बाह्यतो
निःषेचनवन्तम् १६
एवं व्यायातितान्येव भवन्त्योद्वासनात् १७
६