प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्ति द्वाराणि १
परिश्रयन्ति पत्न्याः २
पश्चा-द्धोतोपविशति । पुरस्तादध्वर्युः । दक्षिणतो ब्रह्मा यजमानः
प्रस्तोता च । उत्तरत आग्नीध्रः प्रतिप्रस्थाता च ३
मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वोत्तरेण
विहारं दर्भान् सँ स्तीर्य तत्रैतान् महावीरानुपावहरति देव पुरश्चर
मध्यासं त्वा इति ४
उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् ५
अत्रैव सर्वं परिघर्म्यमुपावहरति ६
औदुम्बरी ँसम्राडासन्दीं
नितराम् ७
राजासन्द्या वर्षीयसीमेके समामनन्ति ८
मौञ्जीभी
रज्जुभिरेकसराभिर्व्युताम् ९
चतस्र औदुम्बरीः स्रुचः १०
तासां
द्वे अनिष्टुब्धे ११
निष्टुब्धयोर्वर्षीयस्युपयमनी ह्रसीयसी
प्रोक्षणीधानी १२
औदुम्बरौ स्रुवौ । औदुम्बरौ शफौ
महा-वीरसम्मिताव्रस्क्यौ । औदुम्बरी धृष्टी । औदुम्बरी मेथी ।
त्रीनौदुम्बरान् मयूखान् । षडौदुम्बरान् शकलान् १३
त्रयोदश वैकङ्कतान्
परिधीन् काण्डकीं च समिधम् १४
प्रभूतानि घर्मेन्धनानि
खादिराण्यौदुम्बराणि वैकङ्कतानि
कार्ष्मर्यमयाणि वा १५
त्रीणि कार्ष्णाजिनानि धवित्राणि येषाँ
शुक्ल-कृष्णलोमानि स्युः १६
वैणवा दण्डा बाहुमात्रा भवन्तीति
विज्ञायते १७
औदुम्बरदण्डानीत्यपरम् १८
द्वौ रुक्मौ रजतसुवर्णौ १९
शतमानौ भवतः २०
मौञ्जौ वेदौ । तयोरन्यतरः परिवासितः २१
मौञ्जीमभिधानीम् ।
मौञ्जे निदाने । त्रीणि मौञ्जानि विशाखदामानि २२
द्वयान्
मुञ्जप्रलवान-प्रतिशीर्णाग्रान् २३
रौहिणयोः पिष्टान्यफलीकृतानाम् २४
खरेभ्यः सिकताः २५
मौञ्जे
पवित्रे इत्येकम् । दर्भमये इत्यपरम् २६
५