अपि वा सर्वैः सर्वतः १
पच्यमानानुपचरति अभीमं महिना दिवम् इत्ये-तयोत्तरया
वा २
सर्वाण्युपचारणानि मन्त्रवन्ति भवन्ति ३
पक्वेषु सिद्ध्यै त्वा इति
धृष्टी आदायाध्वर्युः प्रथमकृतं महावीरमुद्वासयति देवस्त्वा
सवितोद्वपतु इति ४
उत्तरतः सिकतासु प्रतिष्ठापयति
अपद्यमानः पृथिव्यामाशा दिश आपृण इति ५
अथैनमन्वीक्षते
सूर्यस्य त्वा चक्षुषान्वीक्षे इति ६
एवमेव
द्वितीयमुद्वासयत्येवं तृतीयम् ७
तूष्णीमितराणि ८
अथैनान् सिकताभिः प्रदक्षिणं पर्यूहति
इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन
पर्यूहामि इति ९
विशा इति राजन्यस्य । पशुभिः इति वैश्यस्य १०
अथैनान्
प्रभूतेनाजापयसा छृणत्ति गायत्रेण त्वा छन्दसा छृणद्मि
इत्येतैर्मन्त्रैः । त्रिभिस्त्रिभिरेकैकम् ११
अपि वा
सर्वैरेकैकम् १२
अथैनान् कृष्णाजिन उपनह्यासजति देव पुरश्चर सध्यासं त्वा
इति १३
उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् १४
४