तृतीयवेलां प्रतिनयति १
उत्तरतः सिकतासु प्रतिष्ठापयति सूर्यस्य हरसा श्राय
मखोऽसि इति २
एवमेव द्वितीयं प्रतिष्ठापयत्येवं तृतीयम् ३
तूष्णीमितराणि ४
एतस्या एव मृदो दोग्ध्रे करोति हस्त्योष्ठ्ये प्रसेचनवती यथा
स्रुगदण्डैवम् ५
वर्षीय आध्वर्यवँ ह्रसीयः
प्रतिप्रस्थानम् ६
एतस्या आज्यस्थाली ँरौहिणकपाले च
परिमण्डले घोटप्रकारे ७
घर्मेष्टकां कुलायिनीमिति यदि साग्निचित्यो
भवति ८
अथैनान् श्लक्ष्णीकरणैः श्लक्ष्णीकुर्वन्त्यहतचण्डा-तकैर्गवीधुकैः
क्लीतकाभिर्वेणुपर्वभिराज्येनेति ९
अथैनान् धूपनकाले वृष्णोऽश्वस्य
शकृद्गार्हपत्ये प्रदीप्य प्रथमकृतं महावीरँ शफाभ्यां परिगृह्य
धूपयति वृष्णो अश्वस्य निष्पदसि इति १०
एवमेव द्वितीयं धूपयत्येवं
तृतीयम् ११
तूष्णीमितराणि १२
शफाभ्यामेवात ऊर्ध्वं महावीरानादत्ते १३
अग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः सम्भारैरवस्तीर्य तत्र
प्रथमकृतं महावीरमुपावहरति अर्चिरसि इति १४
शोचिरसि इति द्वितीयम् ।
ज्योति-रसि तपोऽसि इति तृतीयम् १५
तूष्णीमितराण्यन्ववधाय लोहितपचनीयैः
सम्भारैः प्रच्छाद्य गार्हपत्ये मुञ्जनादीप्योपोषति । अर्चिषे त्वा
इति पुरस्तात् । शोचिषे त्वा इति दक्षिणतः । ज्योतिषे त्वा इति
पश्चात् । तपसे त्वा इत्युत्तरतः १६
३