ततो वराहविहतमभिमन्त्रयते इयत्यग्र आसीः इति १
समानमत ऊर्ध्वम् २
ततो
वल्मीकवपां देवीर्वम्रीः इति ३
समानमत ऊर्ध्वम् ४
ततः पूतीकान्
इन्द्र स्यौजोऽसि इति ५
समानमत ऊर्ध्वम् ६
कृष्णाजिनलोमान्यजलोमानि च सँ
सृज्य अग्निजा असि प्रजापते रेतः इति ७
समानमत ऊर्ध्वम् ८
अथैनानश्वेनावघ्रापयति आयुर्धेहि प्राणं धेहि इति ९
अथैनानजयाभिदोहयति मधु त्वा मधुला करोतु इति १०
अभिदोहनमेकेऽवघ्रापणात्
पूर्व ँसमामनन्ति ११
बहव आर्याः परिगृह्य हरन्ति १२
उत्तरेण
विहारमुद्धते-ऽवोक्षिते सिकतोपोप्ते परिश्रिते निदधति १३
अथैनान् मदन्तीभिरुपसृजति मधु त्वा मधुला करोतु इति १४
ये के चोखासँ
सर्जनाः सम्भारा यच्चान्यद् दृढार्थमुपार्धं मन्यते १५
तत्रैषोऽत्यन्तप्रदेशः । यत् किं च
प्रवर्ग्य उदककृत्यं मदन्तीभिरेव तत् क्रियते १६
नैनँ
स्त्री प्रेक्षते न शूद्र ः१७
न कुर्वन्नभिप्राण्यात् १८
अपहाय
मुखमनभिप्राणन् वेणुना करोति १९
न प्रवर्ग्यं चादित्यं च व्यवेयात्
२०
यत्र क्व च विप्रक्रान्ते प्रवर्ग्य आदित्योऽस्तमियात् कृतान्तादेव
विरमेत् । श्वो भूते शेषँ समाप्नुयात् २१
सम्प्लोम्नाय मृदं पिण्डं करोति
मखस्य शिरोऽसि इति २२
यज्ञस्य पदे स्थः इत्यङ्गुष्ठाभ्यां निगृह्य
महावीरं करोति प्रादेशमात्रमपरिमितं वा वायव्याकृतिं त्र्!
युद्धिं पञ्चोद्धिं वा २३
गायत्रेण त्वा छन्दसा करोमि इति प्रथमम् ।
त्रैष्टुभेन इति द्वितीयम् । जागतेन इति तृतीयम् २४
अपि वा
सर्वैरेकैकम् २५
उपबिलँ रास्नां करोति मखस्य रास्नासि इति २६
अदितिस्ते बिलं गृह्णातु इति वेणुपर्वणा बिलं करोति यावद्दैवताय
सौविष्टकृतायाग्निहोत्राय भक्षायाप्तं मन्यते २७
२