०१

प्रवर्ग्य ँसम्भरिष्यन्नुदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे पौर्णमास्याममावास्यायां वा तूष्णीं काण्टकी ँ! समिधमाधाय युञ्जते मनः इति चतुर्गृहीतं जुहोति यद्यदीक्षितो भवति १ अथ यदि दीक्षितः काण्टकीमेवैतया समिधमादध्यात् । न जुहुयाद् यजुरेव वदेदित्यपरम् २
ततोऽभ्रिमादत्ते खादिरीमौदुम्बरीं वैणवीं वैकङ्कतीं वा ३
तस्यास्तत्प्रमाणं यदाग्निक्याः ४
देवस्य त्वा सवितुः प्रसवे इत्यभ्रिमादाय ब्रह्माणमामन्त्रयते उत्तिष्ठ ब्रह्मणस्पते इति ५ उपोत्तिष्ठति ब्रह्मा ६
उभावुत्तरमर्धर्चं जपतः ७
आददते कृष्णाजिनम् ८ अनुनयन्त्यजां पुञ्च्छगलामश्वं वृषाणमिति ९
अश्वप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति प्रैतु ब्रह्मणस्पतिः इति १० अपि वास्यैते सम्भाराः परिश्रितेऽभ्युदाहृता भवन्ति ११
अग्रेणाहवनीयं मृत्खनः । पूर्वःपूर्व इतरः १२
उत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीव-मुत्तरलोमास्तीर्य द्यावापृथिवी अभिमन्त्रयते मृत्खनं वा देवी द्यावापृथिवी अनु मे मँ साताम् इति १३
मृत्खनेऽभ्रिया प्रहरति ऋध्यासमद्य मखस्य शिरः इति १४ हरति मखाय त्वा मखस्य त्वा शीर्ष्णे इति १५
तूष्णीं कृष्णाजिने निवपति १६ एवमेव द्वितीयँ हरति । एवं तृतीयम् १७
तूष्णीं चतुर्थं यावतीं मृदं प्रवर्ग्यपात्रेभ्य आप्तां मन्यते १८